दर्भेण त्वं कृणवद्वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः । अतिष्ठाय वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः
जाङ्गिडोऽसि जङ्गिडो रक्षितासि जङ्गिडः । द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिडः
या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये । सर्वान् विनक्तु तेजसोऽरसां जङ्गिडस्करत्
अरसं कृत्रिमं नादमरसाः सप्त विस्रसः । अपेतो जङ्गिडामतिमिषुमस्तेव शातय
कृत्यादूषण एवायमथो अरातिदूषणः । अथो सहस्वाञ्जङ्गिडः प्र न आयूंषि तारिषत्
स जङ्गिडस्य महिमा परि णः पातु विश्वतः । विष्कन्धं येन सासह संस्कन्धमोज ओजसा
त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि । तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः
न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः । विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः
अथोपदान भगवो जाङ्गिडामितवीर्य । पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ
उग्र इत्ते वनस्पत इन्द्र ओज्मानमा दधौ । अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे
आशरीकं विशरीकं बलासं पृष्ट्यामयम् । तक्मानं विश्वशारदमरसां जङ्गिडस्करत्
इन्द्रस्य नाम गृह्णन्त ऋषयो जङ्गिडं ददुः । देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम्
स नो रक्षतु जङ्गिडो धनपालो धनेव । देवा यं चक्रुर्ब्राह्मणाः परिपाणमरातिहम्
दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम् । तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोऽसि जङ्गिडः
परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः । परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान्
य ऋष्णवो देवकृता य उतो ववृतेऽन्यः । सर्वांस्तान् विश्वभेषजोऽरसां जङ्गिडस्करत्
शतवारो अनीनशद्यक्ष्मान् रक्षांसि तेजसा । आरोहन् वर्चसा सह मणिर्दुर्णामचातनः
शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः । मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति
ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः । सर्वां दुर्णामहा मणिः शतवारो अनीनशत्
शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत्। दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते
हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः । दुर्णाम्नः सर्वांस्तृध्वाव रक्षांस्यक्रमीत्
शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् । शतं शश्वन्वतीनां शतवारेण वारये
इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् । त्रयस्त्रिंशद्यानि च वीर्याणि तान्यग्निः प्र ददातु मे
वर्च आ धेहि मे तन्वां सह ओजो वयो बलम् । इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय
ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा । अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय
ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः । धात्रे विधात्रे समृधे भूतस्य पतये यजे
न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते । यं भेषजस्य गुल्गुलोः सुरभिर्गन्धो अश्नुते
विष्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते । यद्गुल्गुलु सैन्धवं यद्वाप्यसि समुद्रियम्
उभयोरग्रभं नामास्मा अरिष्टतातये
19.39 ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि । तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः