सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः । मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते
यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह । ततो हिरण्ययो बिन्दुस्ततो दर्भो अजायत
औदुम्बरेण मणिना पुष्टिकामाय वेधसा । पशूनां सर्वेषां स्फातिं गोष्ठे मे सविता करत्
यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत्। औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या
करीषिणीं फलवतीं स्वधामिरां च नो गृहे । औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे
यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः । गृह्णेऽहं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम्
पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम् । पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यच्छात्
अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु । मह्यमौदुम्बरो मणिर्द्रविणानि नि यच्छतु
उप मौदुम्बरो मणिः प्रजया च धनेन च । इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा
देवो मणिः सपत्नहा धनसा धनसातये । पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु
यथाग्रे त्वं वनस्पते पुष्ट्या सह जज्ञिषे । एवा धनस्य मे स्फातिमा दधातु सरस्वती
आ मे धनं सरस्वती पयस्फातिं च धान्यम् । सिनीवाल्युपा वहादयं चौदुम्बरो मणिः
त्वं मणीणामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान । त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत्सहस्वारादारादरातिममतिं क्षुधं च
ग्रामणीरसि ग्रामणीरुत्थाय अभिषिक्तोऽभि मा सिञ्च वर्चसा । तेजोऽसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि
पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु । औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यच्छ रायस्पोषाय प्रति मुञ्चे अहं त्वाम्
अयमौदुम्बरो मणिर्वीरो वीराय बध्यते । स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यच्छात्
शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः । दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे
नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते । यस्मा अछिन्नपर्णेन दर्भेन शर्म यच्छति
दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः । त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे
तिस्रो दिवो अत्यतृणत्तिस्र इमाः पृथिवीरुत । त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि
त्वमसि सहमानोऽहमस्मि सहस्वान् । उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि
सहस्व नो अभिमातिं सहस्व पृतनायतः । सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि
दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित्। तेनाहं शश्वतो जनामसनं सनवानि च
प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च । यस्मै च कामयामहे सर्वस्मै च विपश्यते
यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च । यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः
सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव । स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः
सहस्रार्घः शतकाण्डः पयस्वान् अपामग्निर्वीरुधां राजसूयम् । स नोऽयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः
घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहोऽच्युतश्च्यावयिष्णुः । नुदन्त्सपत्नान् अधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण
त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत्
तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः । ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये