घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे । हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम्
भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे । उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय
भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः । भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे
छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः । छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे
वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः । वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे
कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः । कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे
पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः । पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे
विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः । विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे
निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः । निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे
तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः । तृन्द्धि मे सर्वान् दुर्हार्दो तृन्द्धि मे द्विषतो मणे
रुन्द्धि दर्भ सपत्नान् मे रुन्द्धि मे पृतनायतः । रुन्द्धि मे सर्वान् दुर्हार्दो रुन्द्धि मे द्विषतो मणे
मृण दर्भ सपत्नान् मे मृण मे पृतनायतः । मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे
मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः । मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे
पिण्ड्ढि दर्भ सपत्नान् मे पिण्ड्ढि मे पृतनायतः । पिण्ड्ढि मे सर्वान् दुर्हार्दो पिण्ड्ढि मे द्विषतो मणे
ओष दर्भ सपत्नान् मे ओष मे पृतनायतः । ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे
दह दर्भ सपत्नान् मे दह मे पृतनायतः । दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे
जहि दर्भ सपत्नान् मे जहि मे पृतनायतः । जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे
यत्ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते । तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः
शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते । तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः
त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् । त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि
सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः । मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते
यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह । ततो हिरण्ययो बिन्दुस्ततो दर्भो अजायत
औदुम्बरेण मणिना पुष्टिकामाय वेधसा । पशूनां सर्वेषां स्फातिं गोष्ठे मे सविता करत्
यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत्। औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या
करीषिणीं फलवतीं स्वधामिरां च नो गृहे । औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे
यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः । गृह्णेऽहं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम्
पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम् । पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यच्छात्
अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु । मह्यमौदुम्बरो मणिर्द्रविणानि नि यच्छतु
उप मौदुम्बरो मणिः प्रजया च धनेन च । इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा
देवो मणिः सपत्नहा धनसा धनसातये । पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु