यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे । तत्त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति
आयुषे त्वा वर्चसे त्वौजसे च बलाय च । यथा हिरण्यतेजसा विभासासि जनामनु
यद्वेद राजा वरुणो वेद देवो बृहस्पतिः । इन्द्रो यद्वृत्रहा वेद तत्त आयुष्यं भुवत्तत्ते वर्चस्यं भुवत्
गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः । वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियैः
सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः । माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु
तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् । त्रिवृतं स्तोमं त्रिवृत आप आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः
त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् । त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते
घृतेन त्वा समुक्षाम्यग्ने आज्येन वर्धयन् । अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन्
मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् । भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत
प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः । प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन्
आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः । प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम्
देवानां निहितं निधिं यमिन्द्रोऽन्वविन्दत्पथिभिर्देवयानैः । आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः
त्रयस्त्रिंशद्देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः । अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद्वीर्याणि
ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम्
ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम्
ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम्
असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् । सविता मा दक्षिणत उत्तरान् मा शचीपतिः
दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः । इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् । तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म
इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे । दर्भं सपत्नदम्भनं द्विषतस्तपनं हृदः
द्विषतस्तापयन् हृदः शत्रूणां तापयन् मनः । दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन्
घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे । हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम्
भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे । उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय
भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः । भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे
छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः । छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे
वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः । वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे
कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः । कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे
पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः । पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे
विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः । विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे
निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः । निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे
तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः । तृन्द्धि मे सर्वान् दुर्हार्दो तृन्द्धि मे द्विषतो मणे