क्षुद्रेभ्यः स्वाहा
एकानृचेभ्यः स्वाहा
रोहितेभ्यः स्वाहा
सूर्याभ्यां स्वाहा
व्रात्याभ्यां स्वाहा
प्राजापत्याभ्यां स्वाहा
विषासह्यै स्वाहा
मङ्गलिकेभ्यः स्वाहा
ब्रह्मणे स्वाहा
ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः
येन देवं सवितारं परि देवा अधारयन् । तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन
परीममिन्द्रमायुषे महे क्षत्राय धत्तन । यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्
परीममिन्द्रमायुषे महे श्रोत्राय धत्तन । यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्
परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ
जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ । शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व
परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा उ । शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन्
योगेयोगे तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये
हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व । तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः
अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च । उत्कूलमुद्वहो भवोदुह्य प्रति धावतात्
अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु । य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति
यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे । तत्त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति
आयुषे त्वा वर्चसे त्वौजसे च बलाय च । यथा हिरण्यतेजसा विभासासि जनामनु
यद्वेद राजा वरुणो वेद देवो बृहस्पतिः । इन्द्रो यद्वृत्रहा वेद तत्त आयुष्यं भुवत्तत्ते वर्चस्यं भुवत्
गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः । वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियैः
सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः । माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु
तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् । त्रिवृतं स्तोमं त्रिवृत आप आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः
त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् । त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते
घृतेन त्वा समुक्षाम्यग्ने आज्येन वर्धयन् । अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन्
मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् । भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत
प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः । प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन्