चतुर्दशर्चेभ्यः स्वाहा
पञ्चदशर्चेभ्यः स्वाहा
षोडशर्चेभ्यः स्वाहा
सप्तदशर्चेभ्यः स्वाहा
अष्टादशर्चेभ्यः स्वाहा
एकोनविंशतिः स्वाहा
विंशतिः स्वाहा
महत्काण्डाय स्वाहा
तृचेभ्यः स्वाहा
एकर्चेभ्यः स्वाहा
क्षुद्रेभ्यः स्वाहा
एकानृचेभ्यः स्वाहा
रोहितेभ्यः स्वाहा
सूर्याभ्यां स्वाहा
व्रात्याभ्यां स्वाहा
प्राजापत्याभ्यां स्वाहा
विषासह्यै स्वाहा
मङ्गलिकेभ्यः स्वाहा
ब्रह्मणे स्वाहा
ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः
येन देवं सवितारं परि देवा अधारयन् । तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन
परीममिन्द्रमायुषे महे क्षत्राय धत्तन । यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्
परीममिन्द्रमायुषे महे श्रोत्राय धत्तन । यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्
परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ
जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ । शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व
परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा उ । शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन्
योगेयोगे तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये
हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व । तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः
अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च । उत्कूलमुद्वहो भवोदुह्य प्रति धावतात्
अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु । य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति