उत्तमेभ्यः स्वाहा
उत्तरेभ्यः स्वाहा
ऋषिभ्यः स्वाहा
शिखिभ्यः स्वाहा
गणेभ्यः स्वाहा
महागणेभ्यः स्वाहा
सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा
पृथक्सहस्राभ्यां स्वाहा
ब्रह्मणे स्वाहा
ब्रह्मज्येष्ठा सम्भृता विर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः
आथर्वणानां चतुर्ऋचेभ्यः स्वाहा
पञ्चर्चेभ्यः स्वाहा
षळृचेभ्यः स्वाहा
सप्तर्चेभ्यः स्वाहा
अष्टर्चेभ्यः स्वाहा
नवर्चेभ्यः स्वाहा
दशर्चेभ्यः स्वाहा
एकादशर्चेभ्यः स्वाहा
द्वादशर्चेभ्यः स्वाहा
त्रयोदशर्चेभ्यः स्वाहा
चतुर्दशर्चेभ्यः स्वाहा
पञ्चदशर्चेभ्यः स्वाहा
षोडशर्चेभ्यः स्वाहा
सप्तदशर्चेभ्यः स्वाहा
अष्टादशर्चेभ्यः स्वाहा
एकोनविंशतिः स्वाहा
विंशतिः स्वाहा
महत्काण्डाय स्वाहा
तृचेभ्यः स्वाहा
एकर्चेभ्यः स्वाहा