ब्रह्म ब्रह्मचारिभिरुदक्रामत्तां पुरं प्र णयामि वः । तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु
इन्द्रो वीर्येणोदक्रामत्तां पुरं प्र णयामि वः । तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु
देवा अमृतेनोदक्रामंस्तां पुरं प्र णयामि वः । तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु
प्रजापतिः प्रजाभिरुदक्रामत्तां पुरं प्र णयामि वः । तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु
अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः । सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः
यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः । प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु
यत्ते तनूष्वनह्यन्त देवा द्युराजयो देहिनः । इन्द्रो यच्चक्रे वर्म तदस्मान् पातु विश्वतः
वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः । वर्म मे विश्वे देवाः क्रन् मा मा प्रापत्प्रतीचिका
गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगत्यै
आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा
षष्ठाय स्वाहा
सप्तमाष्टमाभ्यां स्वाहा
नीलनखेभ्यः स्वाहा
हरितेभ्यः स्वाहा
क्षुद्रेभ्यः स्वाहा
पर्यायिकेभ्यः स्वाहा
प्रथमेभ्यः शङ्खेभ्यः स्वाहा
द्वितीयेभ्यः शङ्खेभ्यः स्वाहा
तृतीयेभ्यः शङ्खेभ्यः स्वाहा
उपोत्तमेभ्यः स्वाहा
उत्तमेभ्यः स्वाहा
उत्तरेभ्यः स्वाहा
ऋषिभ्यः स्वाहा
शिखिभ्यः स्वाहा
गणेभ्यः स्वाहा
महागणेभ्यः स्वाहा
सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा
पृथक्सहस्राभ्यां स्वाहा
ब्रह्मणे स्वाहा
ब्रह्मज्येष्ठा सम्भृता विर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः