इहैव ध्रुवा प्रति तिष्ठ शालेऽश्वावती गोमती सूनृतावती । ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय
धरुण्यसि शाले बृहच्छन्दाः पूतिधान्या । आ त्वा वत्सो गमेदा कुमार आ धेनवः सायमास्पन्दमानाः
इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन् । उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु
मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे । तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः
ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् । मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः
एमां कुमारस्तरुण आ वत्सो जगता सह । एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः
पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम् । इमां पातॄन् अमृतेन समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम्
इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः । गृहान् उप प्र सीदाम्यमृतेन सहाग्निना
यददः संप्रयतीरहावनदता हते । तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः
यत्प्रेषिता वरुणेनाच्छीभं समवल्गत । तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठन
अपकामं स्यन्दमाना अवीवरत वो हि कम् । इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्नाम वो हितम्
एकः वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम् । उदानिषुर्महीरिति तस्मादुदकमुच्यते
आपो भद्रा घृतमिदाप आसन्न् अग्नीषोमौ बिभ्रत्याप इत्ताः । तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत्
आदित्पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम् । मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः
इदं व आपो हृदयमयं वत्स ऋतावरीः । इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः
सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या । अहर्जातस्य यन् नाम तेना वः सं सृजामसि
सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः । समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु
संजग्माना अबिभ्युषीरस्मिन् गोष्ठे करीषिणीः । बिभ्रतीः सोम्यं मध्वनमीवा उपेतन
इहैव गाव एतनेहो शकेव पुष्यत । इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः
शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत । इहैवोत प्र जायध्वं मया वः सं सृजामसि
मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः । रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम
इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु । नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम्
ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति । ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि
इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय । यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम्
इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम् । शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु । इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च
येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः । तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध
येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः । तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः
उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः । स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि
विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः । रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम
प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे