{१८} विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः । इहेमे वीरा बहवो भवन्तु गोमदश्ववन् मय्यस्तु पुष्टम्
विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु । इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्वेषामसवो यमं गुः
यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम् । तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्
आ रोहत दिवमुत्तमामृषयो मा बिभीतन । सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम्
प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति । दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध
नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम्
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि
अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् । ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः
यास्ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः । तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम्
पुनर्देहि वनस्पते य एष निहितस्त्वयि । यथा यमस्य सादन आसातौ विदथा वदन्
आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते । शरीरमस्य सं दहाथैनं देहि सुकृतामु लोके
ये ते पूर्वे परागता अपरे पितरश्च ये । तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती
एतदा रोह वय उन्मृजानः स्वा इह बृहदु दीदयन्ते । अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र
आ रोहत जनित्रीं जातवेदसः पितृयानैः सं व आ रोहयामि । अवाड्ढव्येषितो हव्यवाह ईजानं युक्ताः सुकृतां धत्त लोके
देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि । तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम्
ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति । तेभिर्याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व
त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः । स्वर्गा लोका अमृतेन विष्ठा इषमूर्जं यजमानाय दुह्राम्
संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः । यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि
इमं होमा यज्ञमवतेमं संस्रावणा उत यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि
रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे । यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि
19.2 शं त आपो हैमवतीः शमु ते सन्तूत्स्याः । शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः
शं त आपो धन्वन्याः शं ते सन्त्वनूप्याः । शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः
अनभ्रयः खनमाना विप्रा गम्भीरे अपसः । भिषग्भ्यो भिषक्तरा आपो अछा वदामसि
अपामह दिव्यानामपां स्रोतस्यानाम् । अपामह प्रणेजनेऽश्वा भवथ वाजिनः
ता अपः शिवा अपोऽयक्ष्मंकरणीरपः । यथैव तृप्यते मयस्तास्त आ दत्त भेषजीः
दिवस्पृथिव्याः पर्यन्तरिक्षाद्वनस्पतिभ्यो अध्योषधीभ्यः । यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषमाणो न एहि
यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः । अग्ने सर्वास्तन्वः सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः
यस्ते देवेषु महिमा स्वर्गो या ते तनुः पितृष्वाविवेश । पुष्टिर्या ते मनुष्येषु पप्रथेऽग्ने तया रयिमस्मासु धेहि
श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम् । यतो भयमभयं तन् नो अस्त्वव देवानां यज हेडो अग्ने
यामाहुतिं प्रथमामथर्वा या जाता या हव्यमकृणोज्जातवेदाः । तां त एतां प्रथमो जोहवीमि ताभिष्टुप्तो वहतु हव्यमग्निरग्नये स्वाहा