{१४} अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः । शुचीदयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीरप व्रन्
सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः । शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन्
आ यूथेव क्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः । मर्तासश्चिदुर्वशीरकृप्रन् वृधे चिदर्य उपरस्यायोः
अकर्म ते स्वपसो अभूम ऋतमवस्रन्न् उषसो विभातीः । विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः
इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ
धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ
अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ
सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ
धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ
प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ
{१५} दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ
प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ
उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ
ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ
ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ
धर्तासि धरुनोऽसि वंसगोऽसि
उदपूरसि मधुपूरसि वातपूरसि
इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् । प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने
स्वासस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः । वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत्
त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन । अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति
{१६} देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत । बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्वमा रिरेच
त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि
आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय । पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात
अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः । अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात
उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान्
ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः । तेभिर्यमः सम्रराणो हवींष्युशन्न् उशद्भिः प्रतिकाममत्तु
ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः । आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर्ऋषिभिर्घर्मसद्भिः
ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण । आग्ने याहि सुविदत्रेभिरर्वाङ्परैः पूर्वैर्ऋषिभिर्घर्मसद्भिः
उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात्
उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा । माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि