{११} इदमिद्वा उ नापरं जरस्यन्यदितोऽपरम् । जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि
अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया । जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि
अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् । उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम्
पूषा त्वेतश्च्यावयतु प्र विद्वान् अनष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः
आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्। यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु
इमौ युनज्मि ते वह्नी असुनीताय वोढवे । ताभ्यां यमस्य सादनं समितिश्चाव गच्छतात्
एतत्त्वा वासः प्रथमं न्वागन्न् अपैतदूह यदिहाबिभः पुरा । इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु
अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च । नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन् परीङ्खयातै
दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन । अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम
धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन । समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम्
इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् । धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि । हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ
अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् । अन्धेन यत्तमसा प्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम्
प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती । अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम्
उप द्यामुप वेतसमवत्तरो नदीनाम् । अग्ने पित्तमपामसि
यं त्वमग्ने समदहस्तमु निर्वापय पुनः । क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा
इदं त एकं पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे
उत्तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे । तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः
प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् । मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ
वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन । चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु
{१३} वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् । रयिं मे विश्वे नि यच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु
मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु । वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु
यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत
परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः । दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात
कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः । विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः
विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव । शर्दिर्नो अत्रिरग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः
कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः । आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु
अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते । सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्नते
यद्वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत । ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः
ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः । दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम्