{८} ह्वयामि ते मनसा मन इहेमान् गृहामुप जुजुषाण एहि । सं गच्छस्व पितृभिः सं यमेन स्योनास्त्वा वाता उप वान्तु शग्माः
उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः । अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति
उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे । स्वान् गच्छतु ते मनो अधा पितॄंरुप द्रव
मा ते मनो मासोर्माङ्गानां मा रसस्य ते । मा ते हास्त तन्वः किं चनेह
मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही । लोकं पितृषु वित्त्वैधस्व यमराजसु
यत्ते अङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः । तत्ते संगत्य पितरः सनीडा घासाद्घासं पुनरा वेशयन्तु
अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः । मृत्युर्यमस्यासीद्दूतः प्रचेता असून् पितृभ्यो गमयां चकार
ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टान् अस्मात्प्र धमाति यज्ञात्
सं विशन्त्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः । तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः
यां ते धेनुं निपृणामि यमु क्षीर ओदनम् । तेना जनस्यासो भर्ता योऽत्रासदजीवनः
{९} अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः । यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद्विदत भागधेयम्
यमः परोऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन । यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान
अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते । उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः
ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः । सर्वांस्तान् अग्न आ वह पितॄन् हविषे अत्तवे
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते । त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम्
शं तप माति तपो अग्ने मा तन्वं तपः । वणेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः
ददाम्यस्मा अवसानमेतद्य एष आगन् मम चेदभूदिह । यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह
इमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा
प्रेमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा
अपेमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा
{१०} वीमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा
निरिमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा
उदिमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा
समिमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा
अमासि मात्रां स्वरगामायुष्मान् भूयासम् । यथापरं न मासातै शते शरत्सु नो पुरा
प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय । अपरिपरेण पथा यमराज्ञः पितॄन् गच्छ
ये अग्रवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः । ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः
उदन्वती द्यौरवमा पीलुमतीति मध्यमा । तृतीया ह प्रद्यौरिति यस्यां पितर आसते
ये न पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् । य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम
इदमिद्वा उ नापरं दिवि पश्यसि सूर्यम् । माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि