आच्या जानु दक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे । मा हिंसिष्ट पितरः केन चिन् नो यद्व आगः पुरुषता कराम
त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं समेति । यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश
प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः । उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम्
अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् । अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै
उशन्तस्त्वेधीमह्युशन्तः समिधीमहि । उशन्न् उशत आ वह पितॄन् हविषे अत्तवे
द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि । द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम
अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व । विवस्वन्तं हुवे यः पिता तेऽस्मिन् बर्हिष्या निषद्य
इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व
इत एत उदारुहन् दिवस्पृष्ठान्वारुहन् । प्र भूर्जयो यथा पथा द्यामङ्गिरसो ययुः
18.2 यमाय सोमः पवते यमाय क्रियते हविः । यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः
यमाय मधुमत्तमं जुहोता प्र च तिष्ठत । इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः
यमाय घृतवत्पयो राज्ञे हविर्जुहोतन । स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे
मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् । शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप
यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः । यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति
त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत्। त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता
सूर्यं चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः
अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम्
यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् । अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि
अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् । आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः
{७} अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा । अधा पितॄन्त्सुविदत्रामपीहि यमेन ये सधमादं मदन्ति
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा । ताभ्यां राजन् परि धेह्येनं स्वस्त्यस्मा अनमीवं च धेहि
उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनामनु । तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम्
सोम एकेभ्यः पवते घृतमेक उपासते । येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात्
ये चित्पूर्व ऋतसाता ऋतजाता ऋतावृधः । ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्
तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः । तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात्
ये युध्यन्ते प्रधनेषु शूरासो ये स्वर्तनूत्यजः । ये वा सहस्रदक्षिणास्तां चिदेवापि गच्छतात्
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् । ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्
स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी । यछास्मै शर्म सप्रथाः
असंबाधे पृथिव्या उरौ लोके नि धीयस्व । स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः