सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे
सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती । सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि
उदीरतामवर उत्परास उन् मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु
आहं पितॄन्त्सुविदत्रामवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः
इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः । ये पार्थिवे रजस्या निषक्ता ये वा नूनं सुवृजनासु दिक्षु
मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः । यांश्च देवा वावृधुर्ये च देवांस्ते नोऽवन्तु पितरो हवेषु
स्वादुष्किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम् । उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु
परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ । यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः
{५} बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् । त आ गतावसा शंतमेनाधा नः शं योररपो दधात
आच्या जानु दक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे । मा हिंसिष्ट पितरः केन चिन् नो यद्व आगः पुरुषता कराम
त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं समेति । यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश
प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः । उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम्
अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् । अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै
उशन्तस्त्वेधीमह्युशन्तः समिधीमहि । उशन्न् उशत आ वह पितॄन् हविषे अत्तवे
द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि । द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम
अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व । विवस्वन्तं हुवे यः पिता तेऽस्मिन् बर्हिष्या निषद्य
इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व
इत एत उदारुहन् दिवस्पृष्ठान्वारुहन् । प्र भूर्जयो यथा पथा द्यामङ्गिरसो ययुः
18.2 यमाय सोमः पवते यमाय क्रियते हविः । यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः
यमाय मधुमत्तमं जुहोता प्र च तिष्ठत । इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः
यमाय घृतवत्पयो राज्ञे हविर्जुहोतन । स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे
मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् । शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप
यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः । यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति
त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत्। त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता
सूर्यं चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः
अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम्
यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् । अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि
अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् । आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः