सं वो मनांसि सं व्रता समाकूतीर्नमामसि । अमी ये विव्रता स्थन तान् वः सं नमयामसि
अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत । मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत
कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता । यथाभिचक्र देवास्तथाप कृणुता पुनः
अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् । कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव
पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः । श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः
येना श्रवस्यवश्चरथ देवा इवासुरमायया । शुनां कपिरिव दूषणो बन्धुरा काबवस्य च
दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् । उदाशवो रथा इव शपथेभिः सरिष्यथ
एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु । तेषां त्वामग्रे उज्जहरुर्मणिं विष्कन्धदूषणम्
प्रथमा ह व्युवास सा धेनुरभवद्यमे । सा नः पयस्वती दुहामुत्तरामुत्तरां समाम्
यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली
संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे । सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज
इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा । महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री
वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् । एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम्
इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय । ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु
आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम । पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत । सर्वान् यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर
आयमगन्त्संवत्सरः पतिरेकाष्टके तव । सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज
ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् । समाः संवत्सरान् मासान् भूतस्य पतये यजे
ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः । धात्रे विधात्रे समृधे भूतस्य पतये यजे
इडया जुह्वतो वयं देवान् घृतवता यजे । गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः
एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन देवा व्यसहन्त शत्रून् हन्ता दस्यूनामभवच्छचीपतिः
इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः । कामान् अस्माकं पूरय प्रति गृह्णाहि नो हविः
मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्। ग्राहिर्जग्राह यद्येतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम्
यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकमेव । तमा हरामि निर्ऋतेरुपस्थादस्पार्शमेनं शतशारदाय
सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् । इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम्
शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् । शतं ते इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम्
प्र विशतं प्राणापानावनड्वाहाविव व्रजम् । व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम्
इहैव स्तं प्राणापानौ माप गातमितो युवम् । शरीरमस्याङ्गानि जरसे वहतं पुनः
जरायै त्वा परि ददामि जरायै नि धुवामि त्वा । जरा त्वा भद्रा नेष्ट व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम्
अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा । यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया । तं ते सत्यस्य हस्ताभ्यामुदमुञ्चद्बृहस्पतिः
इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा । तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम