न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवति । महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन्
उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य । नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविष्याः
न यत्पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम । गन्धर्वो अप्स्वप्या च योषा सा नौ नाभिः परमं जामि तन् नौ
गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः । नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत्स जीवात्
को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्। बृहन् मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन्
यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय । जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा
न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा
रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन् मिमीयात्। दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि
{१} आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि । उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत्
किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निर्ऋतिर्निगछात्। काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि
न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् । अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्
न वा उ ते तनूं तन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगच्छात्। असंयदेतन् मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय
बतो बतासि यम नैव ते मनो हृदयं चाविदामा । अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम्
अन्यमू षु यम्यन्य उ त्वां परि ष्वजातौ लिबुजेव वृक्षम् । तस्य वा त्वं मन इछा स वा तवाधा कृणुष्व संविदं सुभद्राम्
त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् । आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि
वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः । विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियामृतून्
रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः । इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति
सो चित्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती । यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन्
{२} अध त्यं द्रप्सं विभ्वं विचक्षनं विराभरदिषिरः श्येनो अध्वरे । यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत
सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः । विप्रस्य वा यच्छशमान उक्थ्यो वाजं ससवामुपयासि भूरिभिः
उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति । विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती
यस्ते अग्ने सुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे । इषं दधानो वहमानो अश्वैरा स द्युमाममवान् भूषति द्यून्
श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् । आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र । रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्
अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश
प्रत्यग्निरुषसामग्रमख्यत्प्रत्यहानि प्रथमो जातवेदाः । प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान
द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा । देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन्
देवो देवान् परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान् । धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान्
{३} अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । अहा यद्देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम्