असंतापं मे हृदयमुर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा
नाभिरहं रयीणां नाभिः समानानां भूयासम्
स्वासदसि सूषा अमृतो मर्त्येश्वा
मा मां प्राणो हासीन् मो अपानोऽवहाय परा गात्
सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः
प्राणापनौ मा मा हासिष्टं मा जने प्र मेषि
स्वस्त्यद्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय
शक्वरी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु
विद्म ते स्वप्न जनित्रं ग्राह्याः पुत्रोऽसि यमस्य करणः । अन्तकोऽसि मृत्युरसि । तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि
विद्म ते स्वप्न जनित्रं निर्ऋत्याः पुत्रोऽसि यमस्य करणः । अन्तकोऽसि मृत्युरसि । तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि
विद्म ते स्वप्न जनित्रमभूत्याः पुत्रोऽसि यमस्य करणः । अन्तकोऽसि मृत्युरसि । तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि
विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोऽसि यमस्य करणः । अन्तकोऽसि मृत्युरसि । तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि
विद्म ते स्वप्न जनित्रं पराभूत्याः पुत्रोऽसि यमस्य करणः । अन्तकोऽसि मृत्युरसि । तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि
विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः । अन्तकोऽसि मृत्युरसि । तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि
अजैष्माद्यासनामद्यामूमनागसो वयम्
उषो यस्माद्दुष्वप्न्यादभैष्माप तदुच्छतु
द्विषते तत्परा वह शपते तत्परा वह
यं द्विष्मो यश्च नो द्वेष्टि तस्मा एनद्गमयामः
उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना
उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिना संविदानः
तेऽमुष्मै परा वहन्त्वरायान् दुर्णाम्नः सदान्वाः
कुम्भीकाः दूषीकाः पीयकान्
जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम्
अनागमिष्यतो वरान् अवित्तेः संकल्पान् अमुच्या द्रुहः पाशान्
तदमुष्मा अग्ने देवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः
तेनैनं विध्याम्यभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि
देवानामेनं घोरैः क्रूरैः प्रैषैरभिप्रेष्यामि
वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि
एवानेवाव सा गरत्
योऽस्मान् द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु