एकं तदेषाममृतत्वमित्याहुतिरेव
तस्य व्रात्यस्य
यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः
योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः
अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः
अह्ना प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय
अतिसृष्टो अपां वृषभोऽतिसृष्टा अग्नयो दिव्याः
रुजन् परिरुजन् मृणन् प्रमृणन्
म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषिः
इदं तमति सृजामि तं माभ्यवनिक्षि
तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः
अपामग्रमसि समुद्रं वोऽभ्यवसृजामि
योऽप्स्वग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम्
यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत्
इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत्
अरिप्रा आपो अप रिप्रमस्मत्
प्रास्मदेनो वहन्तु प्र दुष्वप्न्यं वहन्तु
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे
शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः
निर्दुरर्मण्य ऊर्जा मधुमती वाक्
मधुमती स्थ मधुमतीं वाचमुदेयम्
उपहूतो मे गोपाः उपहूतो गोपीथः
सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम्
सुश्रुतिश्च मोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः
ऋषीणां प्रस्तरोऽसि नमोऽस्तु दैवाय प्रस्तराय
मूर्धाहं रयीणां मूर्धा समानानां भूयासम्
रुजश्च मा वेनश्च मा हासिष्टां मूर्धा च मा विधर्मा च मा हासिष्टाम्
उर्वश्च मा चमसश्च मा हासिष्टां धर्ता च मा धरुणश्च मा हासिष्टाम्
विमोकश्च मार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च मा हासिष्टाम्
बृहस्पतिर्म आत्मा नृमणा नाम हृद्यः