[११] कर्षेदेनं न चैनं कर्षेत्
[१२] अस्यै देवताया उदकं याचामीमां देवतां वासय इमामिमां देवतां परि वेवेष्मी परि वेविष्यात्
तस्यामेवास्य तद्देवतायां हुतं भवति य एवं वेद
15.14 स यत्प्राचीं दिशमनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मनोऽन्नादं कृत्वा । [१] मनसान्नादेनान्नमत्ति य एवं वेद
[२] स यद्दक्षिणां दिशमनु व्यचलदिन्द्रो भूत्वानुव्यचलद्बलमन्नादं कृत्वा । [३ बलेनान्नादेनान्नमत्ति य एवं वेद
[४] स यत्प्रतीचीं दिशमनु व्यचलद्वरुणो राजा भूत्वानुव्यचलदपोऽन्नादीः कृत्वा [५] अद्भिरन्नादीभिरन्नमत्ति य एवं वेद
[६] स यदुदीचीं दिशमनु व्यचलत्सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुत आहुतिमन्नादीं कृत्वा । [७] आहुत्यान्नाद्यान्नमत्ति य एवं वेद
[८] स यद्ध्रुवां दिशमनु व्यचलद्विष्णुर्भूत्वानुव्यचलद्विराजमन्नादीं कृत्वा विराजान्नाद्यान्नमत्ति य एवं वेद
[१०] स यत्पशून् अनु व्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा । [११] ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद
[१२] स यत्पितॄन् अनु व्यचलद्यमो राजा भूत्वानुव्यचलत्स्वधाकारमन्नादं कृत्वा स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद
[१४] स यन् मनुष्यान् अनु व्यचलदग्निर्भूत्वानुव्यचलत्स्वाहाकारमन्नादं कृत्वा स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद
[१६] स यदूर्ध्वां दिशमनु व्यचलद्बृहस्पतिर्भूत्वानुव्यचलद्वषट्कारमन्नादं कृत्वा वषट्कारेणान्नादेनान्नमत्ति य एवं वेद
[१८] स यद्देवान् अनु व्यचलदीशानो भूत्वानुव्यचलन् मन्युमन्नादं कृत्वा । [१ मन्युनान्नादेनान्नमत्ति य एवं वेद
[२०] स यत्प्रजा अनु व्यचलत्प्रजापतिर्भूत्वानुव्यचलत्प्राणमन्नादं कृत्वा । प्राणेनान्नादेनान्नमत्ति य एवं वेद
[२२] स यत्सर्वान् अन्तर्देशान् अनु व्यचलत्परमेष्ठी भूत्वानुव्यचलद्ब्रह्मान्नादं कृत्वा । [२३] ब्रह्मणान्नादेनान्नमत्ति य एवं वेद
तस्य व्रात्यस्य
सप्त प्राणाः सप्तापानाः सप्त व्यानाः
योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः
योऽस्य द्वितीयः प्राणः प्रौढो नामासौ स आदित्यः
योऽस्य तृतीयः प्राणोऽभ्यूढो नामासौ स चन्द्रमाः
योऽस्य चतुर्थः प्राणो विभूर्नामायं स पवमानः
योऽस्य पञ्चमः प्राणो योनिर्नाम ता इमा आपः
योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः
योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः
योऽस्य प्रथमोऽपानः सा पौर्णमासी
योऽस्य द्वितीयोऽपानः साष्टका
योऽस्य तृतीयोऽपानः सामावास्या
योऽस्य चतुर्थोऽपानः सा श्रद्धा
योऽस्य पञ्चमोऽपानः सा दीक्षा
योऽस्य षष्ठोऽपानः स यज्ञः