ऐनमिन्द्रियं गच्छतीन्द्रियवान् भवति
य आदित्यं क्षत्रं दिवमिन्द्रं वेद
तद्यस्यैवं विद्वान् व्रात्योऽतिथिर्गृहान् आगच्छेत्
स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति
यदेनमाह व्रात्य क्वावात्सीरिति पथ एव तेन देवयानान् अव रुन्धे
यदेनमाह व्रात्योदकमित्यप एव तेनाव रुन्धे
यदेनमाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कुरुते
यदेनमाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्धे
ऐनं प्रियं गच्छति प्रियः प्रियस्य भवति य एवं वेद
यदेनमाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्धे
ऐनं वशो गच्छति वशी वशिनां भवति य एवं वेद
यदेनमाह व्रात्य यथा ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्धे
ऐनं निकामो गच्छति निकामे निकामस्य भवति य एवं वेद
तद्यस्यैवं विद्वान् व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहान् आगच्छेत्
स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्याति सृज होष्यामीति
स चातिसृजेज्जुहुयान् न चातिसृजेन् न जुहुयात्
स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति
प्र पितृयाणं पन्थां जानाति प्र देवयानम्
न देवेष्वा वृश्चते हुतमस्य भवति
पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति
अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति
न पितृयाणं पन्थां जानाति न देवयानम्
आ देवेषु वृश्चते अहुतमस्य भवति
नास्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति
तद्यस्यैवं विद्वान् व्रात्य एकां रात्रिमतिथिर्गृहे वसति । [१] ये पृथिव्यां पुण्या लोकास्तान् एव तेनाव रुन्धे
[२] तद्यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति । [३] येऽन्तरिक्षे पुण्या लोकास्तान् एव तेनाव रुन्धे
[४] तद्यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति । [५] ये दिवि पुण्या लोकास्तान् एव तेनाव रुन्धे
[६] तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति । [७] ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे
[८] तद्यस्यैवं विद्वान् व्रात्योऽपरिमिता रात्रीरतिथिर्गृहे वसति । [९] य एवापरिमिताः पुण्या लोकास्तान् एव तेनाव रुन्धे
[१०] अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहान् आगछेत्