विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद
स ध्रुवां दिशमनु व्यचलत्। [१] तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् । भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद स ऊर्ध्वां दिशमनु व्यचलत्। [४] तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् । [५] ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद स उत्तमां दिशमनु व्यचलत्। [७] तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् । [८] ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद
स महिमा सद्रुर्भूत्वान्तं पृथिव्या अगच्छत्समुद्रोऽभवत्
तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त
ऐनमापो गच्छन्त्यैनं श्रद्धा गच्छत्यैनं वर्षं गच्छति य एवं वेद
तं श्रद्धा च यज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त
सोऽरज्यत ततो राजन्योऽजायत
स विशः सबन्धून् अन्नमन्नाद्यमभ्युदतिष्ठत्
विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद
स विशोऽनु व्यचलत्
तं सभा च समितिश्च सेना च सुरा चानुव्यचलन्
सभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद
तद्यस्यैवं विद्वान् व्रात्यो राज्ञोऽतिथिर्गृहान् आगच्छेत्
श्रेयांसमेनमात्मनो मानयेत्तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ॥ अतो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति
बृहस्पतिमेव ब्रह्म प्रविशत्विन्द्रं क्षत्रं तथा वा इति
अतो वै बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रम्
इयं वा उ पृथिवी बृहस्पतिर्द्यौरेवेन्द्रः
अयं वा उ अग्निर्ब्रह्मासावादित्यः क्षत्रम्
ऐनं ब्रह्म गच्छति ब्रह्मवर्चसी भवति
यः पृथिवीं बृहस्पतिमग्निं ब्रह्म वेद
ऐनमिन्द्रियं गच्छतीन्द्रियवान् भवति
य आदित्यं क्षत्रं दिवमिन्द्रं वेद
तद्यस्यैवं विद्वान् व्रात्योऽतिथिर्गृहान् आगच्छेत्
स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति
यदेनमाह व्रात्य क्वावात्सीरिति पथ एव तेन देवयानान् अव रुन्धे
यदेनमाह व्रात्योदकमित्यप एव तेनाव रुन्धे
यदेनमाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कुरुते
यदेनमाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्धे
ऐनं प्रियं गच्छति प्रियः प्रियस्य भवति य एवं वेद
यदेनमाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्धे