पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया । संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे
पुमान् पुंसः परिजातोऽश्वत्थः खदिरादधि । स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम्
तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः । इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च
यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे । एवा तान्त्सर्वान् निर्भङ्ग्धि यान् अहं द्वेष्मि ये च माम्
यः सहमानश्चरसि सासहान इव ऋषभः । तेनाश्वत्थ त्वया वयं सपत्नान्त्सहिषीमहि
सिनात्वेनान् निर्ऋतिर्मृत्योः पाशैरमोक्यैः । अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम्
यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषेऽधरान् । एवा मे शत्रोर्मूर्धानं विष्वग्भिन्द्धि सहस्व च
तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्। न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम्
प्रैणान् नुदे मनसा प्र चित्तेनोत ब्रह्मणा । प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे
हरिणस्य रघुष्यदोऽधि शीर्षणि भेषजम् । स क्षेत्रियं विषाणया विषूचीनमनीनशत्
अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत्। विषाणे वि ष्य गुष्पितं यदस्य क्षेत्रियं हृदि
अदो यदवरोचते चतुष्पक्षमिव छदिः । तेना ते सर्वं क्षेत्रियमङ्गेभ्यो नाशयामसि
अमू ये दिवि सुभगे विचृतौ नाम तारके । वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम्
आप इद्वा उ भेषजीरापो अमीवचातनीः । आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात्
यदासुतेः क्रियमानायाः क्षेत्रियं त्वा व्यानशे । वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत्
अपवासे नक्षत्राणामपवास उषसामुत । अपास्मत्सर्वं दुर्भूतमप क्षेत्रियमुच्छतु
आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः । अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु
धाता रातिः सवितेदं जुषन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः । हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि
हुवे सोमं सवितारं नमोभिर्विश्वान् आदित्यामहमुत्तरत्वे । अयमग्निर्दीदायद्दीर्घमेव सजातैरिद्धोऽप्रतिब्रुवद्भिः
इहेदसाथ न परो गमाथेर्यो गोपाः पुष्टपतिर्व आजत्। अस्मै कामायोप कामिनीर्विश्वे वो देवा उपसंयन्तु
सं वो मनांसि सं व्रता समाकूतीर्नमामसि । अमी ये विव्रता स्थन तान् वः सं नमयामसि
अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत । मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत
कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता । यथाभिचक्र देवास्तथाप कृणुता पुनः
अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् । कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव
पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः । श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः
येना श्रवस्यवश्चरथ देवा इवासुरमायया । शुनां कपिरिव दूषणो बन्धुरा काबवस्य च
दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् । उदाशवो रथा इव शपथेभिः सरिष्यथ
एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु । तेषां त्वामग्रे उज्जहरुर्मणिं विष्कन्धदूषणम्
प्रथमा ह व्युवास सा धेनुरभवद्यमे । सा नः पयस्वती दुहामुत्तरामुत्तरां समाम्
यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली