तदेकमभवत्तल्ललाममभवत्तन् महदभवत्तज्ज्येष्ठमभवत्तद्ब्रह्माभवत्तत्तपोऽभवत्तत्सत्यमभवत्तेन प्राजायत
सोऽवर्धत स महान् अभवत्स महादेवोऽभवत्
स देवानामीशां पर्यैत्स ईशानोऽभवत्
स एकव्रात्योऽभवत्स धनुरादत्त तदेवेन्द्रधनुः
नीलमस्योदरं लोहितं पृष्ठम्
नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति
स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत्। [१] तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् । [२] बृहते च वै स रथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [३] बृहतश्च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद । [४] तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [५] भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं।।६।। मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः।।७।। कीर्तिश्च यशश्च पुरःसरौ ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद
[८] स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्। [९] तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१०] यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [११] यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद । [१२] तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१३] अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद
[१४] स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्। [१५] तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् । [१६] वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [१७] वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [१८] तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१९] अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद
[२०] स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्। [२१] तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् । [२२] श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [२३] श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [२४] तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [२५] श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः [२६] कीर्तिश्च यशश्च पुरःसरौ । [२७] ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद
स संवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति
सोऽब्रवीदासन्दीं मे सं भरन्त्विति
तस्मै व्रात्यायासन्दीं समभरन्
तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ
बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये
ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः
वेद आस्तरणं ब्रह्मोपबर्हणम्
सामासाद उद्गीथोऽपश्रयः
तामासन्दीं व्रात्य आरोहत्
तस्य देवजनाः परिष्कन्दा आसन्त्संकल्पाः प्रहाय्या विश्वानि भूतान्युपसदः
विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद
स ध्रुवां दिशमनु व्यचलत्। [१] तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् । भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद स ऊर्ध्वां दिशमनु व्यचलत्। [४] तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् । [५] ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद स उत्तमां दिशमनु व्यचलत्। [७] तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् । [८] ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद
स महिमा सद्रुर्भूत्वान्तं पृथिव्या अगच्छत्समुद्रोऽभवत्
तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त
ऐनमापो गच्छन्त्यैनं श्रद्धा गच्छत्यैनं वर्षं गच्छति य एवं वेद
तं श्रद्धा च यज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त
सोऽरज्यत ततो राजन्योऽजायत
स विशः सबन्धून् अन्नमन्नाद्यमभ्युदतिष्ठत्
विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद
स विशोऽनु व्यचलत्