बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि
यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोऽघम् । अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम्
यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम् । अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम्
{१२} यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् । अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम्
यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम् । अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम्
इयं नार्युप ब्रूते पूल्यान्यावपन्तिका । दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम्
इहेमाविन्द्र सं नुद चक्रवाकेव दंपती । प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम्
यदासन्द्यामुपधाने यद्वोपवासने कृतम् । विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि
यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत्। तत्संभलस्य कम्बले मृज्महे दुरितं वयम्
संभले मलं सादयित्वा कम्बले दुरितं वयम् । अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्
कृत्रिमः कण्टकः शतदन् य एषः । अपास्याः केश्यं मलमप शीर्षण्यं लिखात्
अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि । तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् । अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान्
सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् । सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम्
{१३} अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम् । ताविह सं भवाव प्रजामा जनयावहै
जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः । अरिष्टासू सचेवहि बृहते वाजसातये
ये पितरो वधूदर्शा इमं वहतुमागमन् । ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यच्छन्तु
येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा । तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत्
प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय । गृहान् गच्छ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु
व्रात्य आसीदीयमान एव स प्रजापतिं समैरयत्
स प्रजापतिः सुवर्णमात्मन्न् अपश्यत्तत्प्राजनयत्
तदेकमभवत्तल्ललाममभवत्तन् महदभवत्तज्ज्येष्ठमभवत्तद्ब्रह्माभवत्तत्तपोऽभवत्तत्सत्यमभवत्तेन प्राजायत
सोऽवर्धत स महान् अभवत्स महादेवोऽभवत्
स देवानामीशां पर्यैत्स ईशानोऽभवत्
स एकव्रात्योऽभवत्स धनुरादत्त तदेवेन्द्रधनुः
नीलमस्योदरं लोहितं पृष्ठम्
नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति
स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत्। [१] तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् । [२] बृहते च वै स रथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [३] बृहतश्च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद । [४] तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [५] भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं।।६।। मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः।।७।। कीर्तिश्च यशश्च पुरःसरौ ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद
[८] स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्। [९] तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१०] यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [११] यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद । [१२] तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१३] अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद
[१४] स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्। [१५] तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् । [१६] वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [१७] वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [१८] तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१९] अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद
[२०] स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्। [२१] तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् । [२२] श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [२३] श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [२४] तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [२५] श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः [२६] कीर्तिश्च यशश्च पुरःसरौ । [२७] ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद