तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः
आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः । प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु
आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा । अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे
{१०} देवैर्दत्तं मनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम् । यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति
यं मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम् । युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम्
स्योनाद्योनेरधि बध्यमानौ हसामुदौ महसा मोदमानौ । सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभातीः
नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः । आण्डात्पतत्रीवामुक्षि विश्वस्मादेनसस्परि
शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते । आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः
सूर्यायै देवेभ्यो मित्राय वरुणाय च । ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः
अपास्मत्तम उच्छतु नीलं पिशङ्गमुत लोहितं यत्। निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सजामि
यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः । व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणावधि सादयामि
या मे प्रियतमा तनूः सा मे बिभाय वाससः । तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम
{११} ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः । वासो यत्पत्नीभिरुतं तन् न स्योनमुप स्पृशात्
उशतीः कन्यला इमाः पितृलोकात्पतिं यतीः । अव दीक्षामसृक्षत स्वाहा
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । वर्चो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । तेजो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । भजो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । यशो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । पयो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् । रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि
यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोऽघम् । अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम्
यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम् । अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम्
{१२} यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् । अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम्
यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम् । अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम्
इयं नार्युप ब्रूते पूल्यान्यावपन्तिका । दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम्
इहेमाविन्द्र सं नुद चक्रवाकेव दंपती । प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम्
यदासन्द्यामुपधाने यद्वोपवासने कृतम् । विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि
यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत्। तत्संभलस्य कम्बले मृज्महे दुरितं वयम्
संभले मलं सादयित्वा कम्बले दुरितं वयम् । अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्