एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम् । यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु
इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः । ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येऽधि तस्थुः । स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम्
ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु । पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः
{७} मा विदन् परिपन्थिनो य आसीदन्ति दंपती । सुगेन दुर्गमतीतामप द्रान्त्वरातयः
सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण । पर्याणद्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु
शिवा नारीयमस्तमागन्न् इमं धाता लोकमस्यै दिदेश । तामर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु
आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम् । सा वः प्रजां जनयद्वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः
प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति । सिनीवालि प्र जायतां भगस्य सुमतावसत्
उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत । मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम्
अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः । वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमस्यमाना
अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः । प्रजावती वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य
उत्तिष्ठेतः किमिच्छन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात्। शून्यैषी निर्ऋते याजगन्थोत्तिष्ठाराते प्र पत मेह रंस्थाः
यदा गार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम् । अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु
{८} शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे । सिनीवालि प्र जायतां भगस्य सुमतावसत्
यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन । तदा रोहतु सुप्रजा या कन्या विन्दते पतिम्
उप स्तृणीहि बल्बजमधि चर्मणि रोहिते । तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु
आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांसि सर्वा । इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः
वि तिष्ठन्तां मातुरस्या उपस्थान् नानारूपाः पशवो जायमानाः । सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान्
सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः । स्योना श्वश्र्वै प्र गृहान् विशेमान्
स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः । स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव
सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन
या दुर्हार्दो युवतयो याश्चेह जरतीरपि । वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन
रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् । आरोहत्सूर्या सावित्री बृहते सौभगाय कम्
{९} आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै । इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि
देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः । सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह
उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा । जामिमिच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि
अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च । तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि
नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः । विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि
राया वयं सुमनसः स्यामोदितो गन्धर्वमावीवृताम । अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः
सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः । मर्य इव योषामधि रोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम्