इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् । क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् । विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः
नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् । भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे दीर्घमायुः
परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु । कृत्यैषा पद्वती भूत्वा जाया विशते पतिम्
नीललोहितं भवति कृत्यासक्तिर्व्यज्यते । एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते
अश्लीला तनूर्भवति रुशती पापयामुया । पतिर्यद्वध्वो वाससः स्वमङ्गमभ्यूर्णुते
आशसनं विशसनमथो अधिविकर्तनम् । सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुम्भति
तृष्टमेतत्कटुकमपाष्ठवद्विषवन् नैतदत्तवे । सूर्यां यो ब्रह्मा वेद स इद्वाधूयमर्हति
स इत्तत्स्योनं हरति ब्रह्मा वासः सुमङ्गलम् । प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति
{३} युवं भगं सं भरतं समृद्धमृतं वदन्तावृतोद्येषु । ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम्
इहेदसाथ न परो गमाथेमं गावः प्रजया वर्धयाथ । शुभं यतीरुस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि
इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम् । अस्मै वः पूषा मरुतश्च सर्वे अस्मै वो धाता सविता सुवाति
अनृक्षरा ऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम् । सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा
यच्च वर्चो अक्षेषु सुरायां च यदाहितम् । यद्गोष्वश्विना वर्चस्तेनेमां वर्चसावतम्
येन महानघ्न्या जघनमश्विना येन वा सुरा । येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम्
यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु । अपां नपान् मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्यावान्
इदमहं रुशन्तं ग्राभं तनूदूषिमपोहामि । यो भद्रो रोचनस्तमुदचामि
आस्यै ब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः । अर्यम्णो अग्निं पर्येतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश्च
शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म । शं त आपः शतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व
{४} खे रथस्य खेऽनसः खे युगस्य शतक्रतो । अपालामिन्द्र त्रिष्पूत्वाकृणोः सूर्यत्वचम्
आशासाना सौमनसं प्रजां सौभाग्यं रयिम् । पत्युरनुव्रता भूत्वा सं नह्यस्वामृताय कम्
यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा । एवा त्वं सम्राज्ञ्येधि पत्युरस्तं परेत्य
सम्राज्ञ्येधि श्वशुरेषु सम्राज्ञ्युत देवृषु । ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युत श्वश्र्वाः
या अकृन्तन्न् अवयन् याश्च तत्निरे या देवीरन्तामभितोऽददन्त । तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः
जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरः । वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे
स्योनं ध्रुवं प्रजायै धारयामि तेऽश्मानं देव्याः पृथिव्या उपस्थे । तमा तिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु
येनाग्निरस्या भूम्या हस्तं जग्राह दक्षिणम् । तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च
देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु । अग्निः सुभगां जतवेदाः पत्ये पत्नीं जरदष्टिं कृणोतु
गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः । भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः
{५} भगस्ते हस्तमग्रहीत्सविता हस्तमग्रहीत्। पत्नी त्वमसि धर्मणाहं गृहपतिस्तव