शुची ते चक्रे यात्या व्यानो अक्ष आहतः । अनो मनस्मयं सूर्यारोहत्प्रयती पतिम्
सूर्याया वहतुः प्रागात्सविता यमवासृजत्। मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते
यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः । क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः
यदयातं शुभस्पती वरेयं सूर्यामुप । विश्वे देवा अनु तद्वामजानन् पुत्रः पितरमवृणीत पूषा
द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः । अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः
अर्यमणं यजामहे सुबन्धुं पतिवेदनम् । उर्वारुकमिव बन्धनात्प्रेतो मुञ्चामि नामुतः
प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् । यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति
प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः । ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै
भगस्त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन । गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि
{२} इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि । एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि
इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् । क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् । विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः
नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् । भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे दीर्घमायुः
परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु । कृत्यैषा पद्वती भूत्वा जाया विशते पतिम्
नीललोहितं भवति कृत्यासक्तिर्व्यज्यते । एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते
अश्लीला तनूर्भवति रुशती पापयामुया । पतिर्यद्वध्वो वाससः स्वमङ्गमभ्यूर्णुते
आशसनं विशसनमथो अधिविकर्तनम् । सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुम्भति
तृष्टमेतत्कटुकमपाष्ठवद्विषवन् नैतदत्तवे । सूर्यां यो ब्रह्मा वेद स इद्वाधूयमर्हति
स इत्तत्स्योनं हरति ब्रह्मा वासः सुमङ्गलम् । प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति
{३} युवं भगं सं भरतं समृद्धमृतं वदन्तावृतोद्येषु । ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम्
इहेदसाथ न परो गमाथेमं गावः प्रजया वर्धयाथ । शुभं यतीरुस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि
इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम् । अस्मै वः पूषा मरुतश्च सर्वे अस्मै वो धाता सविता सुवाति
अनृक्षरा ऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम् । सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा
यच्च वर्चो अक्षेषु सुरायां च यदाहितम् । यद्गोष्वश्विना वर्चस्तेनेमां वर्चसावतम्
येन महानघ्न्या जघनमश्विना येन वा सुरा । येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम्
यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु । अपां नपान् मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्यावान्
इदमहं रुशन्तं ग्राभं तनूदूषिमपोहामि । यो भद्रो रोचनस्तमुदचामि
आस्यै ब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः । अर्यम्णो अग्निं पर्येतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश्च
शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म । शं त आपः शतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व
{४} खे रथस्य खेऽनसः खे युगस्य शतक्रतो । अपालामिन्द्र त्रिष्पूत्वाकृणोः सूर्यत्वचम्