तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह
13.7(१३.४) स वा अह्नोऽजायत तस्मादहरजायत
स वै रात्र्या अजायत तस्माद्रात्रिरजायत
स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत
स वै वायोरजायत तस्माद्वायुरजायत
स वै दिवोऽजायत तस्माद्द्यौरधि अजायत
स वै दिग्भ्योऽजायत तस्माद्दिशोऽजायन्त
स वै भूमेरजायत तस्माद्भूमिरजायत
स वा अग्नेरजायत तस्मादग्निरजायत
स वा अद्भ्योऽजायत तस्मादापोऽजायन्त
स वा ऋग्भ्योऽजायत तस्मादृचोऽजायन्त
स वै यज्ञादजायत तस्माद्यज्ञोऽजायत
स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम्
स स्तनयति स वि द्योतते स उ अश्मानमस्यति
पापाय वा भद्राय वा पुरुषायासुराय वा
यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः
तावांस्ते मघवन् महिमोपो ते तन्वः शतम्
उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम्
13.८(१३.४) भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः
भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम्
नमस्ते अस्तु पश्यत पश्य मा पश्यत
अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन
अम्भो अमो महः सह इति त्वोपास्महे वयम्
अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम्
13.८(१३.४) उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम्
प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम्
भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम्
नमस्ते अस्तु पश्यत पश्य मा पश्यत
अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन
सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः । ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः