नाष्टमो न नवमो दशमो नाप्युच्यते
स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न
तमिदं निगतं सहः स एष एक एकवृदेक एव
सर्वे अस्मिन् देवा एकवृतो भवन्ति
ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च
भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च
य एतं देवमेकवृतं वेद
स एव मृत्युः सोऽमृतं सोऽभ्वं स रक्षः
स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः
तस्येमे सर्वे यातव उप प्रशिषमासते
तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह
13.7(१३.४) स वा अह्नोऽजायत तस्मादहरजायत
स वै रात्र्या अजायत तस्माद्रात्रिरजायत
स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत
स वै वायोरजायत तस्माद्वायुरजायत
स वै दिवोऽजायत तस्माद्द्यौरधि अजायत
स वै दिग्भ्योऽजायत तस्माद्दिशोऽजायन्त
स वै भूमेरजायत तस्माद्भूमिरजायत
स वा अग्नेरजायत तस्मादग्निरजायत
स वा अद्भ्योऽजायत तस्मादापोऽजायन्त
स वा ऋग्भ्योऽजायत तस्मादृचोऽजायन्त
स वै यज्ञादजायत तस्माद्यज्ञोऽजायत
स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम्
स स्तनयति स वि द्योतते स उ अश्मानमस्यति
पापाय वा भद्राय वा पुरुषायासुराय वा
यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः
तावांस्ते मघवन् महिमोपो ते तन्वः शतम्
उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम्
13.८(१३.४) भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः
भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम्