य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । योऽस्येशे द्विपदो यश्चतुष्पदः । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्
एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन् पङ्क्तिमुपतिष्ठमानः । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्
कृष्णायाः पुत्रो अर्जुनो रात्र्या वत्सोऽजायत । स ह द्यामधि रोहति रुहो रुरोह रोहितः
१३.४ स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत्
रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः
स धाता स विधर्ता स वायुर्नभ उच्छ्रितम्
सोऽर्यमा स वरुणः स रुद्रः स महादेवः
सो अग्निः स उ सूर्यः स उ एव महायमः
तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश
पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति
तस्यैष मारुतो गणः स एति शिक्याकृतः
रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः
तस्येमे नव कोशा विष्टम्भा नवधा हिताः
स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न
तमिदं निगतं सहः स एष एक एकवृदेक एव
एते अस्मिन् देवा एकवृतो भवन्ति
१३.५ कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च
य एतं देवमेकवृतं वेद
न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते
न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते
नाष्टमो न नवमो दशमो नाप्युच्यते
स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न
तमिदं निगतं सहः स एष एक एकवृदेक एव
सर्वे अस्मिन् देवा एकवृतो भवन्ति
ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च
भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च
य एतं देवमेकवृतं वेद
स एव मृत्युः सोऽमृतं सोऽभ्वं स रक्षः
स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः
तस्येमे सर्वे यातव उप प्रशिषमासते