तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमा भासि रोचन
प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः । प्रत्यङ्विश्वं स्वर्दृशे
{८} येना पावक चक्षसा भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि
वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः । पश्यन् जन्मानि सूर्य
सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षणम्
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । ताभिर्याति स्वयुक्तिभिः
रोहितो दिवमारुहत्तपसा तपस्वी । स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव
यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः । सं बाहुभ्यां भरति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः
एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं समासते
अतन्द्रो यास्यन् हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः । केतुमान् उद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि
बण्महाँ असि सूर्य बडादित्य महाँ असि । महांस्ते महतो महिमा त्वमादित्य महाँ असि
रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः । उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित्
{९} अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः । विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत्
चित्रश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् । अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि
तिग्मो विभ्राजन् तन्वं शिशानोऽरंगमासः प्रवतो रराणः । ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः
चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् । दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्राद् द्वायापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च
उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् । पश्याम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः
दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः । स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम
सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् । स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा
रोहितः कालो[http://puranastudy.freeoda.com/pur_index6/kaala.htm कालोपरि टिप्पणी] अभवद्रोहितोऽग्रे प्रजापतिः । रोहितो यज्ञानां मुखं रोहितः स्वराभरत्
रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम् । रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत्
{१०} सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः । दिवं समुद्रमाद्भूमिं सर्वं भूतं वि रक्षति
आरोहन् छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः । चित्रश्चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद्विभाति
अभ्यन्यदेति पर्यन्यदस्यतेऽहोरात्राभ्यां महिषः कल्पमानः । सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः
पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव । विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि
पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम् । सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ
१३.३ य इमे द्यावापृथिवी जजान यो द्रापिं कृत्वा भुवनानि वस्ते । यस्मिन् क्षियन्ति प्रदिशः षडुर्वीर्याः पतङ्गो अनु विचाकशीति । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । यस्माद्वाता ऋतुथा पवन्ते यस्मात्समुद्रा अधि विक्षरन्ति । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्
यो मारयति प्राणयति यस्मात्प्राणन्ति भुवनानि विश्वा । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान्