उत्केतुना बृहता देव आगन्न् अपावृक्तमोऽभि ज्योतिरश्रैत्। दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा
उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि । उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः
{७} पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् । विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति
दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे । स एषि सुधृतस्तपन् विश्वा भूतावचाकशत्
उभावन्तौ समर्षसि वत्सः संमातराविव । नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः
यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः । अध्वास्य विततो महान् पूर्वश्चापरश्च यः
तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति । तेनामृतस्य भक्षं देवानां नाव रुन्धते
उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम्
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । सूराय विश्वचक्षसे
अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु । भ्राजन्तो अग्नयो यथा
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमा भासि रोचन
प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः । प्रत्यङ्विश्वं स्वर्दृशे
{८} येना पावक चक्षसा भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि
वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः । पश्यन् जन्मानि सूर्य
सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षणम्
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । ताभिर्याति स्वयुक्तिभिः
रोहितो दिवमारुहत्तपसा तपस्वी । स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव
यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः । सं बाहुभ्यां भरति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः
एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं समासते
अतन्द्रो यास्यन् हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः । केतुमान् उद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि
बण्महाँ असि सूर्य बडादित्य महाँ असि । महांस्ते महतो महिमा त्वमादित्य महाँ असि
रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः । उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित्
{९} अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः । विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत्
चित्रश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् । अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि
तिग्मो विभ्राजन् तन्वं शिशानोऽरंगमासः प्रवतो रराणः । ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः
चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् । दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्राद् द्वायापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च
उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् । पश्याम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः
दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः । स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम
सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् । स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा