ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ । ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः
सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते । ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः
{५} यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः । ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः
वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् । घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः
वर्षमाज्यं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत । तत्रैतान् पर्वतान् अग्निर्गीर्भिरूर्ध्वामकल्पयत्
गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्। त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम्
स यज्ञः प्रथमो भूतो भव्यो अजायत । तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम्
यश्च गां पदा स्फुरति प्रत्यङ्सूर्यं च मेहति । तस्य वृश्चामि ते मूलं न छायां करवोऽपरम्
यो माभिछायमत्येषि मां चाग्निं चान्तरा । तस्य वृश्चामि ते मूलं न छायां करवोऽपरम्
यो अद्य देव सूर्य त्वां च मां चान्तरायति । दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे
मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्त स्थुर्नो अरातयः
यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः । तमाहुतमशीमहि
13.2 उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते । आदित्यस्य नृचक्षसो महिव्रतस्य मीढुषः
दिशां प्रज्ञानां स्वरयन्तमर्चिषा सुपक्षमाशुं पतयन्तमर्णवे । स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर्दिश आभाति सर्वाः
यत्प्राङ्प्रत्यङ्स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया । तदादित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जायसे
विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः । स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम्
मा त्वा दभन् परियान्तमाजिं स्वस्ति दुर्गामति याहि शीभम् । दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि
स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः । यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः
सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् । यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः
सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त । अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत्
उत्केतुना बृहता देव आगन्न् अपावृक्तमोऽभि ज्योतिरश्रैत्। दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा
उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि । उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः
{७} पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् । विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति
दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे । स एषि सुधृतस्तपन् विश्वा भूतावचाकशत्
उभावन्तौ समर्षसि वत्सः संमातराविव । नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः
यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः । अध्वास्य विततो महान् पूर्वश्चापरश्च यः
तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति । तेनामृतस्य भक्षं देवानां नाव रुन्धते
उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम्
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । सूराय विश्वचक्षसे
अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु । भ्राजन्तो अग्नयो यथा