अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि । युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति
प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् । जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम्
इन्द्र सेनां मोहयामित्राणाम् । अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय
इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा । चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता
अग्निर्नो दूतः प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् । स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः
अयमग्निरमूमुहद्यानि चित्तानि वो हृदि । वि वो धमत्वोकसः प्र वो धमतु सर्वतः
इन्द्र चित्तानि मोहयन्न् अर्वाङाकूत्या चर । अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय
व्याकूतय एषामिताथो चित्तानि मुह्यत । अथो यदद्यैषां हृदि तदेषां परि निर्जहि
अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि । अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून्
असौ या सेना मरुतः परेषामस्मान् ऐत्यभ्योजसा स्पर्धमाना । तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात्
अचिक्रदत्स्वपा इह भुवदग्ने व्यचस्व रोदसी उरूची । युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम्
दूरे चित्सन्तमरुषास इन्द्रमा च्यावयन्तु सख्याय विप्रम् । यद्गायत्रीं बृहतीमर्कमस्मै सौत्रामण्या दधृषन्त देवाः
अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः । इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः
{४} श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम् । अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम्
{५} ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत । इन्द्राग्नी विश्वे देवास्ते विशि क्षेममदीधरन्
{६} यस्ते हवं विवदत्सजातो यश्च निष्ट्यः । अपाञ्चमिन्द्र तं कृत्वाथेममिहाव गमय
आ त्वा गन् राष्ट्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज । सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह
त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः । वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि
अच्छ त्वा यन्तु हविनः सजाता अग्निर्दूतो अजिरः सं चरातै । जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः
अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु । अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि
आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् । तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि
इन्द्रेन्द्र मनुष्याः परेहि सं ह्यज्ञास्था वरुणैः संविदानः । स त्वायमह्वत्स्वे सधस्थे स देवान् यक्षत्स उ कल्पयद्विशः
पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन् । तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह
आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान् । ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्वप्रयावन्
मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम् । अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः
यं निदधुर्वनस्पतौ गुह्यं देवाः प्रियं मणिम् । तमस्मभ्यं सहायुषा देवा ददतु भर्तवे
सोमस्य पर्णः सह उग्रमागन्न् इन्द्रेण दत्तो वरुणेन शिष्टः । तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय
आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये । यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः
ये धीवानो रथकाराः कर्मारा ये मनीषिणः । उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान्
ये राजानो राजकृतः सूता ग्रामण्यश्च ये । उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान्