वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः । इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधातु
परि त्वा धात्सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा । सर्वा अरातीरवक्रामन्न् एहीदं राष्ट्रमकरः सुनृतावत्
{२} यं त्वा पृषती रथे प्रष्टिर्वहति रोहित । शुभा यासि रिणन्न् अपः
अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः । तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम
इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति । तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयोऽप्रमादम्
सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् । घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश
यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव । यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते
रोहितो दिवमारुहन् महतः पर्यर्णवात्। सर्वो रुरोह रोहितो रुहः
वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा । इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व
समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः । अभीषाट्विश्वाषाडग्निः सपत्नान् हन्तु ये मम
हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति । क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि
अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान् । अधा सपत्नान् मामकान् अग्नेस्तेजोभिरादिषि
{३} अग्ने सपत्नान् अधरान् पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते । इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः
उद्यंस्त्वं देव सूर्य सपत्नान् अव मे जहि । अवैनान् अश्मना जहि ते यन्त्वधमं तमः
वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम् । घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति
दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह । प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व
ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम् । तैष्टे रोहितः सम्विदानो राष्ट्रं दधातु सुमनस्यमानः
उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति । तिरः समुद्रमति रोचसेऽर्णवम्
रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति । सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि
यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम् । यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः
अमुत्र सन्न् इह वेत्थेतः संस्तानि पश्यसि । इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम्
देवो देवान् मर्चयस्यन्तश्चरस्यर्णवे । समानमग्निमिन्धते तं विदुः कवयः परे
{४} अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौरुदस्थात्। सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन्
एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी । सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति
आरोहन् द्याममृतः प्राव मे वचः । उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति
वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि । यत्ते सधस्थं परमे व्योमन्
सूर्यो द्यां सूर्यः पृठिवीं सूर्य आपोऽति पश्यति । सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम्
उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत । तत्रैतावग्नी आधत्त हिमं घ्रंसं च रोहितः
हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् । वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः
स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते । तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोऽजायत