अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान् महतो वरिम्णः
सूर्य एनं दिवः प्र णुदतां न्योषतु
उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सूनृतावत्। यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु
उद्वाज आ गन् यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः । सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह
यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् । आ वो रोहितः शृणवत्सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः
रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् । ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्न् इह राष्ट्रमाहाः
आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन् मृधो अभयं ते अभूत्। तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः
रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान । तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन
रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः । तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन्
वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च । दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन
यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् । तासां ब्रह्मणा पयसा ववृधानो विशि राष्ट्रे जागृहि रोहितस्य
यस्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः । तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः
{१} ऊर्ध्वो रोहितो अधि नाके अस्थाद्विश्वा रूपाणि जनयन् युवा कविः । तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि
सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः । मा मा हासीन् नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि
रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि । रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु
रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः । वोचेयं ते नाभिं भुवनस्याधि मज्मनि
आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः । आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह
अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम् । अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे
वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा । इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निरायुषा वर्चसा दधातु
वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः । इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु
वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः । इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधातु
परि त्वा धात्सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा । सर्वा अरातीरवक्रामन्न् एहीदं राष्ट्रमकरः सुनृतावत्
{२} यं त्वा पृषती रथे प्रष्टिर्वहति रोहित । शुभा यासि रिणन्न् अपः
अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः । तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम
इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति । तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयोऽप्रमादम्
सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् । घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश
यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव । यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते
रोहितो दिवमारुहन् महतः पर्यर्णवात्। सर्वो रुरोह रोहितो रुहः
वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा । इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व
समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः । अभीषाट्विश्वाषाडग्निः सपत्नान् हन्तु ये मम