आददानमाङ्गिरसि ब्रह्मज्यमुप दासय
वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता
ओषन्ती समोषन्ती ब्रह्मणो वज्रः
क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम्
आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः
आदाय जीतं जीताय लोकेऽमुष्मिन् प्र यच्छसि
अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या
मेनिः शरव्या भवाघादघविषा भव
अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः
त्वया प्रमूर्णं मृदितमग्निर्दहतु दुश्चितम्
वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह
ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह
यथायाद्यमसादनात्पापलोकान् परावतः
एवा त्वं देव्यघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः
वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना
प्र स्कन्धान् प्र शिरो जहि
लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय
मांसान्यस्य शातय स्नावान्यस्य सं वृह
अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि
सर्वास्याङ्गा पर्वाणि वि श्रथय
अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान् महतो वरिम्णः
सूर्य एनं दिवः प्र णुदतां न्योषतु
उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सूनृतावत्। यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु
उद्वाज आ गन् यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः । सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह
यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् । आ वो रोहितः शृणवत्सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः
रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् । ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्न् इह राष्ट्रमाहाः
आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन् मृधो अभयं ते अभूत्। तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः
रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान । तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन
रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः । तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन्
वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च । दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन