सर्वास्याङ्गा पर्वा मूलानि वृश्चति
छिनत्त्यस्य पितृबन्धु परा भावयति मातृबन्धु
विवाहां ज्ञातीन्त्सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना
अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते
य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादत्ते
क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम्
क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम्
क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत ऐलबम्
क्षिप्रं वै तस्य पृच्छन्ति यत्तदासी३ इदं नु ता३ इति
छिन्ध्या छिन्धि प्र छिन्ध्यपि क्षापय क्षापय
आददानमाङ्गिरसि ब्रह्मज्यमुप दासय
वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता
ओषन्ती समोषन्ती ब्रह्मणो वज्रः
क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम्
आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः
आदाय जीतं जीताय लोकेऽमुष्मिन् प्र यच्छसि
अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या
मेनिः शरव्या भवाघादघविषा भव
अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः
त्वया प्रमूर्णं मृदितमग्निर्दहतु दुश्चितम्
वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह
ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह
यथायाद्यमसादनात्पापलोकान् परावतः
एवा त्वं देव्यघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः
वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना
प्र स्कन्धान् प्र शिरो जहि
लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय
मांसान्यस्य शातय स्नावान्यस्य सं वृह
अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि
सर्वास्याङ्गा पर्वाणि वि श्रथय