सैषा भीमा ब्रह्मगव्यघविषा साक्षात्कृत्या कूल्बजमावृता
सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः
सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः
सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना मृत्योः पड्वीश आ द्यति
मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा
तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता
वज्रो धावन्ती वैश्वानर उद्वीता
हेतिः शफान् उत्खिदन्ती महादेवोऽपेक्षमाणा
क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति
मृत्युर्हिङ्कृण्वत्युग्रो देवः पुच्छं पर्यस्यन्ती
सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती
मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा
सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा
शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना
अघविषा निपतन्ती तमो निपतिता
अनुगच्छन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य
वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना
देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता
पाप्माधिधीयमाना पारुष्यमवधीयमाना
विषं प्रयस्यन्ती तक्मा प्रयस्ता
अघं प्रच्यमाना दुष्वप्न्यं पक्वा
मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता
असंज्ञा गन्धेन शुगुद्ध्रियमाणाशीविष उद्धृता
अभूतिरुपह्रियमाणा पराभूतिरुपहृता
शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता
अवर्तिरश्यमाना निर्ऋतिरशिता
अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च
तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम्
अस्वगता परिह्णुता
अग्निः क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति