सत्येनावृता श्रिया प्रावृता यशसा परीवृता
स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम्
ब्रह्म पदवायं ब्राह्मणोऽधिपतिः
तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य
अप क्रामति सूनृता वीर्यं पुण्या लक्ष्मीः
ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च
ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च
आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च
पयश्च रसश्चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च
तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य
सैषा भीमा ब्रह्मगव्यघविषा साक्षात्कृत्या कूल्बजमावृता
सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः
सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः
सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना मृत्योः पड्वीश आ द्यति
मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा
तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता
वज्रो धावन्ती वैश्वानर उद्वीता
हेतिः शफान् उत्खिदन्ती महादेवोऽपेक्षमाणा
क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति
मृत्युर्हिङ्कृण्वत्युग्रो देवः पुच्छं पर्यस्यन्ती
सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती
मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा
सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा
शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना
अघविषा निपतन्ती तमो निपतिता
अनुगच्छन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य
वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना
देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता
पाप्माधिधीयमाना पारुष्यमवधीयमाना
विषं प्रयस्यन्ती तक्मा प्रयस्ता