पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति । सास्मै सर्वान् कामान् वशा प्रददुषे दुहे
सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे । अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम्
प्रवीयमाना चरति क्रुद्धा गोपतये वशा । वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम्
यो वेहतं मन्यमानोऽमा च पचते वशाम् । अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः
महदेषाव तपति चरन्ती गोषु गौरपि । अथो ह गोपतये वशाददुषे विषं दुहे
प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते । अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात्
{२२} या वशा उदकल्पयन् देवा यज्ञादुदेत्य । तासां विलिप्त्यं भीमामुदाकुरुत नारदः
तां देवा अमीमांसन्त वशेया३ अवशेति । तामब्रवीन् नारद एषा वशानां वशतमेति
कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः । तास्त्वा पृच्छामि विद्वांसं कस्या नाश्नीयादब्राह्मणः
विलिप्त्या बृहस्पते या च सूतवशा वशा । तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम्
नमस्ते अस्तु नारदानुष्ठु विदुषे वशा । कतमासां भीमतमा यामदत्त्वा पराभवेत्
विलिप्ती या बृहस्पतेऽथो सूतवशा वशा । तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम्
त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा । ताः प्र यच्छेद्ब्रह्मभ्यः सोऽनाव्रस्कः प्रजापतौ
एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः । वशां चेदेनं याचेयुर्या भीमाददुषो गृहे
देवा वशां पर्यवदन् न नोऽदादिति हीडिताः । एताभिर्ऋग्भिर्भेदं तस्माद्वै स पराभवत्
उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः । तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे
ये वशाया अदानाय वदन्ति परिरापिणः । इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या
ये गोपतिं पराणीयाथाहुर्मा ददा इति । रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या
यदि हुतां यद्यहुताममा च पचते वशाम् । देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर्ऋच्छति
श्रमेण तपसा सृष्टा ब्रह्मणा वित्तर्ते श्रिता
सत्येनावृता श्रिया प्रावृता यशसा परीवृता
स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम्
ब्रह्म पदवायं ब्राह्मणोऽधिपतिः
तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य
अप क्रामति सूनृता वीर्यं पुण्या लक्ष्मीः
ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च
ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च
आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च
पयश्च रसश्चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च
तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य