पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति । अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति
यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते । लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम्
यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति । ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः
यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्। ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्
यदस्याः पल्पूलनं शकृद्दासी समस्यति । ततोऽपरूपं जायते तस्मादव्येष्यदेनसः
जायमानाभि जायते देवान्त्सब्राह्मणान् वशा । तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम्
{१९} य एनां वनिमायन्ति तेषां देवकृता वशा । ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते
य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति । आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे
यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः । हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति
यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा । तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते
स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि । यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम्
चरेदेवा त्रैहायणादविज्ञातगदा सती । वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः
य एनामवशामाह देवानां निहितं निधिम् । उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः
यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत । उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम्
दुरदभ्नैनमा शये याचितां च न दित्सति । नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति
देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् । तेषां सर्वेषामददद्धेडं न्येति मानुषः
{२०} हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् । देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते
यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् । अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा
य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् । दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता
देवा वशामयाचन् यस्मिन्न् अग्रे अजायत । तामेतां विद्यान् नारदः सह देवैरुदाजत
अनपत्यमल्पपशुं वशा कृणोति पूरुषम् । ब्राह्मणैश्च याचितामथैनां निप्रियायते
अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च । तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत्
यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् । चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत्
यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्। आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः
वशा चरन्ती बहुधा देवानां निहितो निधिः । आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति
आविरात्मानं कृणुते यदा स्थाम जिघांसति । अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः
{२१} मनसा सं कल्पयति तद्देवामपि गच्छति । ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम्
स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः । दानेन राजन्यो वशाया मातुर्हेडं न गच्छति
वशा माता राजन्यस्य तथा संभूतमग्रशः । तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते
यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये । एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्