प्राच्यै त्वा दिशेऽग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते । एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम
दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते । एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम
प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रेऽन्नायेषुमते । एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम
उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रेऽशन्या इषुमत्यै । एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम
ध्रुवायै त्वा दिशे विष्णवेऽधिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः । एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम
ऊर्ध्वायै त्वा दिशे बृहस्पतयेऽधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते । एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम
ददामीत्येव ब्रूयादनु चैनामभुत्सत । वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्
प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति । य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति
कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति । बण्डया दह्यन्ते गृहाः काणया दीयते स्वम्
विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् । तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे
पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति । अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति
यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते । लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम्
यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति । ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः
यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्। ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्
यदस्याः पल्पूलनं शकृद्दासी समस्यति । ततोऽपरूपं जायते तस्मादव्येष्यदेनसः
जायमानाभि जायते देवान्त्सब्राह्मणान् वशा । तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम्
{१९} य एनां वनिमायन्ति तेषां देवकृता वशा । ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते
य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति । आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे
यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः । हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति
यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा । तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते
स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि । यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम्
चरेदेवा त्रैहायणादविज्ञातगदा सती । वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः
य एनामवशामाह देवानां निहितं निधिम् । उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः
यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत । उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम्
दुरदभ्नैनमा शये याचितां च न दित्सति । नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति
देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् । तेषां सर्वेषामददद्धेडं न्येति मानुषः
{२०} हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् । देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते
यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् । अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा
य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् । दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता
देवा वशामयाचन् यस्मिन्न् अग्रे अजायत । तामेतां विद्यान् नारदः सह देवैरुदाजत