धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु । तं त्वा दंपती जीवन्तौ जीवपुत्रावुद्वासयातः पर्यग्निधानात्
सर्वान्त्समागा अभिजित्य लोकान् यावन्तः कामाः समतीतृपस्तान् । वि गाहेथामायवनं च दर्विरेकस्मिन् पात्रे अध्युद्धरैनम्
उप स्तृणीहि प्रथय पुरस्ताद्घृतेन पात्रमभि घारयैतत्। वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिङ्कृणोत
उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः । तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यछान्
यद्यज्जाया पचति त्वत्परःपरः पतिर्वा जाये त्वत्तिरः । सं तत्सृजेथां सह वां तदस्तु संपादयन्तौ सह लोकमेकम्
यावन्तो अस्याः पृथिवीं सचन्ते अस्मत्पुत्राः परि ये संबभूवुः । सर्वांस्तामुप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान्
{१६} वसोर्या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः । सर्वास्ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीछात्
निधिं निधिपा अभ्येनमिछादनीश्वरा अभितः सन्तु येऽन्ये । अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्त्स्वर्गान् अरुक्षत्
अग्नी रक्षस्तपतु यद्विदेवं क्रव्याद्पिशाच इह मा प्र पास्त । नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम्
आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि । शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम्
इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप । आ सिञ्च सर्पिर्घृतवत्समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र
सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम् । मा नो द्यूतेऽव गान् मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत्
अहं पचाम्यहं ददामि ममेदु कर्मन् करुणेऽधि जाया । कौमारो लोको अजनिष्ट पुत्रोऽन्वारभेथां वय उत्तरावत्
न किल्बिषमत्र नाधारो अस्ति न यन् मित्रैः समममान एति । अनूनं पात्रं निहितं न एतत्पक्तारं पक्वः पुनरा विशाति
प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति । धेनुरनड्वान् वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु
समग्नयः विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून् । यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव
{१७} एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये । क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य
यदक्षेषु वदा यत्समित्यां यद्वा वदा अनृतं वित्तकाम्या । समानं तन्तुमभि सम्वसानौ तस्मिन्त्सर्वं शमलं सादयाथः
वर्षं वनुष्वापि गच्छ देवांस्त्वचो धूमं पर्युत्पातयासि । विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम्
तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्न् अन्यवर्णाम् । अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि
प्राच्यै त्वा दिशेऽग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते । एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम
दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते । एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम
प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रेऽन्नायेषुमते । एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम
उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रेऽशन्या इषुमत्यै । एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम
ध्रुवायै त्वा दिशे विष्णवेऽधिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः । एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम
ऊर्ध्वायै त्वा दिशे बृहस्पतयेऽधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते । एतं परि दद्मस्तं नो गोपायतास्माकमैतोः । दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम
ददामीत्येव ब्रूयादनु चैनामभुत्सत । वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्
प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति । य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति
कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति । बण्डया दह्यन्ते गृहाः काणया दीयते स्वम्
विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् । तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे