यं वां पिता पचति यं च माता रिप्रान् निर्मुक्त्यै शमलाच्च वाचः । स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा
उभे नभसी उभयांश्च लोकान् ये यज्वनामभिजिताः स्वर्गाः । तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम्
प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते । यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम्
दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत्। तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यच्छात्
प्रतीची दिशामियमिद्वरं यस्यां सोमो अधिपा मृडिता च । तस्यां श्रयेथां सुकृतः सचेथामधा पक्वान् मिथुना सं भवाथः
उत्तरं राष्ट्रं प्रजयोत्तरावद्दिशामुदीची कृणवन् नो अग्रम् । पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर्विश्वाङ्गैः सह सं भवेम
{१३} ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु । सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम्
पितेव पुत्रान् अभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ । यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु
यद्यद्कृष्णः शकुन एह गत्वा त्सरन् विषक्तं बिल आससाद । यद्वा दास्यार्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः
अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः । आ रोह चर्म महि शर्म यच्छ मा दंपती पौत्रमघं नि गाताम्
वनस्पतिः सह देवैर्न आगन् रक्षः पिशाचामपबाधमानः । स उच्छ्रयातै प्र वदाति वाचं तेन लोकामभि सर्वान् जयेम
सप्त मेधान् पशवः पर्यगृह्णन् य एषां ज्योतिष्माँ उत यश्चकर्श । त्रयस्त्रिंशद्देवतास्तान्त्सचन्ते स नः स्वर्गमभि नेष लोकम्
स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम । गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन् निर्ऋतिर्मो अरातिः
ग्राहिं पाप्मानमति तामयाम तमो व्यस्य प्र वदासि वल्गु । वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम्
विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् । वर्षवृद्धमुप यच्छ शूर्पं तुषं पलावान् अप तद्विनक्तु
त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम् । अंशून् गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम्
{१४} पृथग्रूपाणि बहुधा पशूनामेकरूपो भवसि सं समृद्ध्या । एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा
पृथिवीं त्वा पृथिव्यामा वेशयामि तनूः समानी विकृता त एषा । यद्यद्द्युत्तं लिखितमर्पणेन तेन मा सुस्रोर्ब्रह्मणापि तद्वपामि
जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या । उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैराज्येनातिषक्ता
अग्निः पचन् रक्षतु त्वा पुरस्तादिन्द्रो रक्षतु दक्षिणतो मरुत्वान् । वरुणस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा सोमः सं ददातै
पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान् । ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम्
आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम् । शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु
उतेव प्रभ्वीरुत संमितास उत शुक्राः शुचयश्चामृतासः । ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः
संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः । असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम्
उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून् । योषेव दृष्ट्वा पतिमृत्वियायैतैस्तण्डुलैर्भवता समापः
उत्थापय सीदतो बुध्न एनान् अद्भिरात्मानमभि सं स्पृशन्ताम् । अमासि पात्रैरुदकं यदेतन् मितास्तण्डुलाः प्रदिशो यदीमाः
{१५} प्र यच्छ पर्शुं त्वरया हरौषमहिंसन्त ओषधीर्दान्तु पर्वन् । यासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु
नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु । तस्मिन् देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य
वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोमैः संमितो देवताभिः । त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम्
षष्ट्यां शरत्सु निधिपा अभीच्छात्स्वः पक्वेनाभ्यश्नवातै । उपैनं जीवान् पितरश्च पुत्रा एतं स्वर्गं गमयान्तमग्नेः