मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः । आसीना मृत्युं नुदता सधस्थेऽथ जीवासो विदथमा वदेम
{९} इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् । अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे
व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्यहं कल्पयामि । स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्त्सृजामि
यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु । मय्यहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम्
अपावृत्य गार्हपत्यात्क्रव्यादा प्रेत दक्षिणा । प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम्
द्विभागधनमादाय प्र क्षिणात्यवर्त्या । अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्यादनिराहितः
यत्कृषते यद्वनुते यच्च वस्नेन विन्दते । सर्वं मर्त्यस्य तन् नास्ति क्रव्याच्चेदनिराहितः
अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे । छिनत्ति कृष्या गोर्धनाद्यं क्रव्यादनुवर्तते
मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य । क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति
ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन् म्रियते पतिः । ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निरादधत्
यद्रिप्रं शमलं चकृम यच्च दुष्कृतम् । आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत्
{१०} ता अधरादुदीचीराववृत्रन् प्रजानैतीः पथिभिर्देवयानैः । पर्वतस्य वृषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः
अग्ने अक्रव्यान् निः क्रव्यादं नुदा देवयजनं वह
इमं क्रव्यादा विवेशायं क्रव्यादमन्वगात्। व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम्
अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्हपत्य उभयान् अन्तरा श्रितः
जीवानामायुः प्र तिर त्वमग्ने पितॄणां लोकमपि गच्छन्तु ये मृताः । सुगार्हपत्यो वितपन्न् अरातिमुषामुषां श्रेयसीं धेह्यस्मै
सर्वान् अग्ने सहमानः सपत्नान् ऐषामूर्जं रयिमस्मासु धेहि
इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्। तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम्
अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्। आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम
अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन् प्रतरणः सुवीरः । अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि
ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा । क्रव्याद्यान् अग्निरन्तिकादश्व इवानुवपते नडम्
{११} येऽश्रद्धा धनकाम्या क्रव्यादा समासते । ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा
प्रेव पिपतिषति मनसा मुहुरा वर्तते पुनः । क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति
अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः । माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व
इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम् । तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ
प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्याविवेश । परामीषामसून् दिदेश दीर्घेणायुषा समिमान्त्सृजामि
12.3 पुमान् पुंसोऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते । यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम्
तावद्वां चक्षुस्तति वीर्याणि तावत्तेजस्ततिधा वाजिनानि । अग्निः शरीरं सचते यदैधोऽधा पक्वान् मिथुना सं भवाथः
समस्मिंल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु । पूतौ पवित्रैरुप तद्ध्वयेथां यद्यद्रेतो अधि वां संबभूव
आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य । तासां भजध्वममृतं यमाहुरोदनं पचति वां जनित्री