सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः । सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः
भूतं ब्रूमो भूतपतिं भूतानामुत यो वशी । भूतानि सर्वा संगत्य ते नो मुञ्चन्त्वंहसः
या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः । संवत्सरस्य ये दंष्ट्रास्ते नः सन्तु सदा शिवाः
यन् मातली रथक्रीतममृतं वेद भेषजम् । तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम्
11.7(११.९) उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः । उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्तः समाहितम्
उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् । आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः
सन्न् उच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः । लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि
दृढो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश । नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः
ऋक्साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् । हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश्च तन् मयि
ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् । उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि
राजसूयं वाजपेयमग्निष्टोमस्तदध्वरः । अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः
अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह । उत्सन्ना यज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः
अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः । दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः
एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः । ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया
{१९} चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह । षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः
प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः । साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन् मयि
सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः । उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः
नव भूमीः समुद्रा उच्छिष्टेऽधि श्रिता दिवः । आ सूर्यो भात्युच्छिष्टेऽहोरात्रे अपि तन् मयि
उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः । बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता
पिता जनितुरुच्छिष्टोऽसोः पौत्रः पितामहः । स क्षियति विश्वस्येशानो वृषा भूम्यामतिघ्न्यः
ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च । भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले
समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः । संवत्सरोऽध्युच्छिष्ट इडा प्रैषा ग्रहा हविः
चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः । उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः
अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह । उच्छिष्टे घोषिणीराप स्तनयित्नुः श्रुतिर्मही
{२०} शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा । अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता
राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः । अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता
यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा । उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः
ऋचः सामानि छन्दांसि पुराणं यजुषा सह । उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः
प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या । उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः
आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये । उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः