इममग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत्
पार्थिवस्य रसे देवा भगस्य तन्वो बले । आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः
आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेहि अस्मै । रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम्
आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ । जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यान् अधरान्त्सपत्नान्
इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन् । एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत्
ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् । ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः
शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः । सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम्
इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधामजरां सा त एषा । तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन्
यथेदं भूम्या अधि तृणं वातो मथायति । एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः
सं चेन् नयाथो अश्विना कामिना सं च वक्षथः । सं वां भगासो अग्मत सं चित्तानि समु व्रता
यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः । तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा
यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम् । कन्यानां विश्वरूपाणां मनो गृभायौषधे
एयमगन् पतिकामा जनिकामोऽहमागमम् । अश्वः कनिक्रदद्यथा भगेनाहं सहागमम्
इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी । तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव
दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् । अल्गण्डून्त्सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि
अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् । शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिरुच्छिषातै
अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमीन् । अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि
ये क्रिमयः पर्वतेशु वनेष्वोषधीषु पशुष्वप्स्वन्तः । ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम्
उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः । ये अन्तः क्रिमयो गवि
विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम् । शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः
अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्। अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन्
हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः । हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा
हतासो अस्य वेशसो हतासः परिवेशसः । अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः
प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि । भिनद्मि ते कुषुम्भं यस्ते विषधानः
अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि । यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते
ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्। यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते
हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् । यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि । यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते
अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः । यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते